|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.61. अध्यायः 061
Mahabharata - Drona Parva - Chapter Topics
नारदेन सञ्जयम्प्रति दिलीपप्रभाववर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-61-0x(4416)(47078)
दिलीपं चापि राजेन्द्र मृतां सृञ्जय शुश्रुम।
यस्य यज्ञशतेष्वासन्प्रयुतायुतशो द्विजाः॥ 7-61-1(47079)
तन्त्रज्ञानार्थसम्पन्ना यज्वानः पुत्रपौत्रिणः।
`स्वच्छन्दाः पुण्यगन्धाश्च सुभक्षा हेममालिनः।
यस्य कर्माणि भूरिणि कथयन्ति मनीषिणः'॥ 7-61-2(47080)
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत॥ 7-61-3(47081)
`राजानो वितते यज्ञे उपहारानुपाहरन्'।
दिलीपस्य तु यज्ञेषु कृतः पन्था हिरण्मयः।
तं धर्म इव कुर्वाणाः सेन्द्रा देवाः समागमन्॥ 7-61-4(47082)
सहस्रं यत्र मातङ्गा अगच्छन्पर्वतोपमाः।
सौवर्णं चाभवत्सर्वं सदः परमभास्वरम्॥ 7-61-5(47083)
रसानां चाभवन्कुल्या भक्ष्याणां चापि पर्वताः।
सहस्रव्यामा नृपते यूपाश्चासन्हिरण्मयाः॥ 7-61-6(47084)
चषालप्रचषालौ च यस्य यूपे हिरण्मयौ।
नृत्यन्त्यप्सरसो यत्र षट्सहस्राणि सप्त च॥ 7-61-7(47085)
यत्र वीणां वादयति प्रीत्या विश्वावसुः स्वयम्।
सर्वभूतान्यमन्यन्त मम वादयतीति तम्॥ 7-61-8(47086)
रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते॥ 7-61-9(47087)
तदेतदद्भुतं मन्ये अन्यैर्न सदृशं नृपैः।
यदप्सु युध्यमानस्य चक्रे न परिपेततुः॥ 7-61-10(47088)
राजानं दृढधन्वानं दिलीपं सत्यवादिनम्।
येऽपश्यन्भूरिदक्षिण्यं तेऽपि स्वर्गजितो नराः॥ 7-61-11(47089)
पञ्च शब्दा न जीर्यन्ति दिलीपस्य निवेशने।
स्वाध्यायघोषो ज्याघोषः पिबताश्नीत खादत॥ 7-61-12(47090)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-61-13(47091)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये एकषष्टितमोऽध्यायः॥ 61 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-61-2 तन्त्र क्रिया॥ 5-61-4 पन्था हिरण्मयः। हिरण्मय्यः स्रुचो भवन्तीति विधिमार्गस्तत आरभ्य प्रवृत्त इत्यर्थः॥ 5-61-9 रागखण्डवं गुडोदनम्। पर्पटिकेति वैदर्भाः। यद्योषा हेमसच्छन्ना मत्ताः पथिषु शेरते इति ङ.ड.पाठः। पथि सुशेरते इति क. पाठः। रागस्वाण्डवभोज्यैश्च मत्ताः पथिषु शेरते इति घ.पाठः॥ 5-61-10 अप्सु न परिपेततुः न ममज्जतुः। यस्याप्ययुध्यमानस्य चक्रे न परिमर्दनम् इति क. पाठः॥ 5-61-61 एकषष्टितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|